सोमो राजामृतं सुत ओषधीनामपां रसः ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥अद्भ्यः सोमं व्यपिबच् छन्दोभिर्हंसः शुचिषत् ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥अन्नात् परिस्रुतो रसं ब्रह्मणा क्षत्रं व्यपिबत् ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियम् ।गर्भो जरायुणावृता उल्बं जहाति जन्मना ॥ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥दृष्ट्वा रूपे व्याकरोत्सत्यानृते प्रजापतिः ।अश्रद्धामनृतेऽदधाच् श्रद्धां सत्ये प्रजापतिः ॥ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥दृष्ट्वा परिस्रुतो रसं शुक्रेण शुक्रं व्यपिबत् पयः सोमं प्रजापतिः ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
 

Please join our telegram group for more such stories and updates.telegram channel